Sanskrit संस्कृत

प्र.9 अधोलिखितेषु गद्यांशेषु गद्यांशद्वयस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखतः
(क) मध्यप्रदेशस्यनगरीयं पौराणिकी ऐतिहासिकी च वर्तते। विदिशा पूर्वस्मिन् काले ‘भेलसा’ इति नाम्ना सुविख्याता आसीत्। एतस्य कारणं सूर्यदेवतायाः मन्दिरस्य ‘भेल्लस्वामिनः’ इति लोकख्यातिरेव। पुरा विदिशानगरी समुन्नतमेकं वाणिज्यिकं केन्द्रमासीत्। योगदर्शनस्य प्रणेता व्याकरणमहाभाष्यस्य कर्त्ता महर्षिः पतंजलिः सम्राट् अशोकोऽपि विदिशया सह सम्बद्धौ आस्ताम्।
(1) मध्यप्रदेशस्य का नगरी पौराणिकी ऐतिहासिकी च वर्तते?

उत्तरः मध्यप्रदेशस्या विदिशा नगरी पौराणिकी ऐतिहासिकी च वर्तते।

(2) पूर्वस्मिन् काले विदिशा नगर्याः किं नाम आसीत्?

उत्तरः पूर्वस्मिन काले विदिशाः नगर्याः नाम भेलसा आसीत्।

(3) पुरा विदिशा नगरी कीदृशं केन्द्रम् आसीत्?

उत्तरः पुरा विदिशा नगरी समुन्न्तमेकं वाणिज्यिकं केन्द्रमासीत्।

(4) ‘भेल्लस्वामिनः’ इति कस्य मन्दिरस्य लोकख्यातिः?

उत्तरः भेल्लस्वामिनः इति सूर्यदेवतायाः मन्दिरस्य लोकख्याति

(5) पतञजलिः कः आसीत्?

उत्तरः पतंजलिः योगदर्शनस्य प्रणेता व्यकरण महाभाषयायकर्ता च आसीत।